भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
|
0 |
अष्टमः सर्गः
पाणिपीडनविधैरनन्तरं शैलराजदुहितुर्हरं प्रति।
भावसाध्वसपरिग्रहादभूत् कामदोहदमनोहरं वपुः॥१॥
व्याहृता प्रतिवचो न सन्दधे गन्तुमैच्छदवलम्बितांशुका।
सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः॥२॥
कैतवेन शयिते कुतूहलात् पार्वती प्रतिमुखं निपातितम्।
चक्षुरुन्मिषति सस्मितं प्रिये विद्युताहतमिव न्यमीलयत्॥३॥
नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः।
तकूलमेथ चाभवत् स्वयं दूरमुच्छ्वसितनीविबन्धनम्॥४॥
एवमालि निगृहीतसाध्वसं शङ्करो रहसि सेव्यतामिति।
सा सखीभिरुपदिष्टमाकुला नास्मरत् प्रमुखवतिनि प्रिये॥५॥
अप्यवस्तुनि कथाप्रवृत्तये। प्रश्नतत्परमनङ्गशासनम्।
वीक्षितेन परिवीक्ष्य पार्वती मूर्धकम्पमयमुत्तरं ददौ॥६॥
शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका।
तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्यभूत्॥७॥
चुम्बनेष्वधरदानर्वाजतं खिन्नहस्तसदयोपगृहनम्।
क्लिष्टमन्मथमपि प्रियं प्रभोदुर्लभप्रतिकृतं वधूरतम्॥८॥
यन्मुखग्रहणमक्षताधरं दानमव्रणपदं नखस्य यत्।
यद् रतं च सदयं प्रियस्य तत् पार्वती विषहते स्म नेतरत्॥९॥
रात्रिवृत्तमनुयोक्तुमुद्यतं सा प्रभातसमये सखीजनम्।
नाकरोदपकुतूहलं हिया शंसितुं तु हृदयेन तत्वरे॥१०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः